.||श्रीगणेशाय नमः ||
वक्रतुंड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
गजाननं भूतगणादिसेवितंकपित्थजंबूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामिविघ्नेश्वरपादपङ्कजम् ॥
उमासुतं शोकविनाशकारकं नमामिविघ्नेश्वरपादपङ्कजम् ॥
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरंदेवंशशिवर्णंचतुर्भुजम्।
प्रसन्नवदनंध्यायेत्सर्वविघ्नोपशान्तये॥
प्रसन्नवदनंध्यायेत्सर्वविघ्नोपशान्तये॥
मूषिकवाहन्मोदकहस्तचामरकर्णविलम्बितसूत्र।
वामनरूपमहेश्वरपुत्रविघ्नविनायकपादनमस्ते॥
वामनरूपमहेश्वरपुत्रविघ्नविनायकपादनमस्ते॥
ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आ नः शृण्वन्नूतिभिःसीदसादनम्
ॐ महागणाधिपतये नमः ॥
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आ नः शृण्वन्नूतिभिःसीदसादनम्
ॐ महागणाधिपतये नमः ॥
ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्ती प्रचोदयात् ॥
तन्नो दन्ती प्रचोदयात् ॥
अगजानन पद्मार्कं गजाननं अहर्निशम् ।
अनेकदंतं भक्तानां एकदन्तं उपास्महे ॥
अनेकदंतं भक्तानां एकदन्तं उपास्महे ॥

No comments:
Post a Comment